Prayer for Goddess Lakshmi, who shines like gold, wearing gold and silver garlands, blooming like the moon and the embodiment of wealth. A genuine prayer asking Goddess Lakshmi to endow us with great wealth, health and prosperity.
| श्रीसुक्तम् |
हरिःॐ
हिरण्यवर्णां हरिणीं सुवर्ण रजतस्रजाम्।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदोमआवह॥१॥
तांम आवह जातवेदो लक्ष्मी मनपगामिनीम्।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्॥२॥
अश्वपूर्वां रथ मध्यां हस्तिनाद प्रबोधिनीम्।
श्रियं देवी मुपह्वये श्रीर्मा देवीजुषताम्॥३॥
कां सोस्मितां हिरण्य प्राकारा मार्द्रांज्वलन्तीं तृप्तां तर्पयन्तीम्।
पद्मेस्थितां पद्मवर्णां तामिहो पह्वये श्रियम्॥४॥
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देव जुष्टा मुदाराम्।
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे॥५॥
आदित्यवर्णे तपसोऽधिजातो वनस्पति स्तव वृक्षोऽथबिल्वः।
तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः॥६॥
उपैतु मां देवसखः कीर्तिश्च मणिना सह।
प्रादुर्भूतोऽस्मिराष्ट्रेऽस्मिन्किर्ति म्रुधिम् ददातु मे॥७॥
क्षुत्पि पासा मलांज्येष्ठा मलक्ष्मीं नाशयाम्यहम्।
अभूतिम समृद्धिं च सर्वां निर्णुद मेगृहात्॥८॥
गन्धद्वारां दुराधर्षां नित्य पुष्टांकरीषिणीम्।
ईश्वरीं सर्व भूतानां तामिहो पह्वयेश्रियम्॥९॥
मनसः काममाकूतिं वाचः सत्यमशीमहि।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतांयशः॥१०॥
कर्दमेन प्रजाभूता मयि सम्भवकर्दम।
श्रियं वासय मे कुलेमातरं पद्ममालिनीम्॥११॥
आपः सृजन्तु स्निग्धानि चिक्लीत वसमेगृहे।
निच देवीं मातरं श्रियं वासय मे कुले॥१२॥
आर्द्रां पुष्करिणींपुष्टिंपिङ्गलांपद्ममालिनीम्।
चन्द्रांहिरण्मयींलक्ष्मींजातवेदोमआवह॥१३॥
आर्द्रां यः करिणीं यष्टिं सुवर्णां हेम मालिनीम्।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥१४॥
तां म आवह जातवेदो लक्ष्मी मनपगामिनीम्।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पूरुषानहम्॥१५॥
यः शुचिः प्रयतो भूत्वा जुहु यादाज्य मन्वहम्।
सूक्तं पञ्च दशर्चं च श्रीकामः सततं जपेत्॥१६॥
पद्मानने पद्मऊरु पद्माक्षी पद्मसम्भवे।
तन्मे भजसि पद्माक्षी येन सौख्यं लभाम्यहम्॥१७॥
अश्वदायि गोदायि धनदायि महाधने।
धनं मे जुषतां देवि सर्व कामांश्चदेहिमे॥१८॥
पद्मा नने पद्म विपद्म पत्रे पद्म प्रिये पद्म दलाय ताक्षि
विश्व प्रिये विश्व मनो नु कुले त्वत्पाद पद्मं मयि सन्नि धस्त्व ॥१९॥
पुत्र पौत्र धनं धान्यं हस्त्यश्वा दिगवेरथम्।
प्रजानां भवसि माता आयुष्मन्तं करोतु माम्॥१९॥
धन मग्निर्धनं वायुर्धनंसूर्यो धनंवसुः।
धनमिन्द्रो बृहस्पति र्वरुणं धनमश्नुते॥२०॥
वैनतेय सोमंपिब सोमंपिबतु वृत्रहा।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः॥२१॥
न क्रोधो न च मात्सर्य न लोभो नाशुभा मतिः।
भवन्ति कृत पुण्यानां भक्तानां श्री सूक्तं जपेत्॥२२॥
सर सिज निलये सरोज हस्ते धवल तरांशुक गन्ध माल्यशोभे।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवन भूतिकरि प्रसीद मह्यम्॥२३॥
विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम्।
लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युत वल्लभाम्॥२४॥
महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि।
तन्नो लक्ष्मीः प्रचोदयात्॥२४॥
श्री वर्चस्वम आयुष्यं आरोग्यं आविधाच्छोभमानं महीयते
धनं धान्यं पशुं बहु पुत्र लाभं शत संवत्सरं दीर्घमायुः ॥२५॥