Stotra describing and elaborating qualities of Goddess Saraswati, goddess of education and art.
।। श्रीसरस्वती-स्तोत्रम् ।।
श्री गणेशाय नमः ।। ॐ अस्य श्री सरस्वती स्तोत्र मन्त्रस्य ।
ब्रह्मा ऋषिः ।। गायत्री छन्दः ।। श्रीसरस्वती देवता ।।
धर्मार्थकाममोक्षार्थे जपे विनियोगः ।
आरूढाश्वेतहंसे भ्रमति च गगने दक्षिणे चाक्षसूत्रं
वामे हस्ते च दिव्याम्बर कनकमयं पुस्तकं ज्ञानगम्या ।
सा वीणां वादयन्ती स्वकरकरजपैः शास्त्रविज्ञान शब्दैः
क्रीडन्ती दिव्यरूपा करकमलधरा भारती सुप्रसन्ना ॥ १ ॥
श्वेतपद्मासना देवी श्वेतगन्धानुलेपना
अर्चिता मुनिभिः सर्वैः ऋषिभिः स्तूयते सदा ।
एवं ध्यात्वा सदा देवीं वाञ्छितं लभते नरः ॥ २ ॥
शुक्लां ब्रह्मविचारसार परमामाद्यां जगद्व्यापिनीं
वीणा पुस्तकधारिणीमभयदां जाडयान्धकारापहाम् ।
हस्ते स्फाटिक मालिकां विदधतीं पद्मासने संस्थितां
वन्दे त्वां परमेश्वरीं भगवतीं बुद्धिपदां शारदाम् ॥ ३ ॥
या कुन्देन्दु तुषार हार धवला या शुभ्र वस्त्रावृता
या वीणा वरदण्ड मण्डित करा या श्वेत पद्मासना ।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता
सा मां पातु सरस्वती भगवती निःशेषजाडयापहा ॥ ४ ॥
ह्रीं ह्रीं हृद्यैक बीजे शशिरुचिकमले कल्पविस्पष्ट शोभे ।
भव्ये भव्यानुकूले कुमतिवनदवे विश्ववद्याङ्घ्रिपद्म ।
पद्मे पद्मापविष्टे प्रणतजनमनोमोदसंपादयित्रि
प्रोत्फुल्लज्ञानकूटे हरिनिजदयिते देवि संसारसारे ॥ ५ ॥
ऐं ऐं ऐं दृष्टमन्त्रे कमलभवमुखाम्भोज भूते स्वरूपे ।
रूपारूप प्रकाशे सकल गुणमये निर्गुणे निर्विकारे ।
न स्थूले नैव सूक्ष्मेऽप्यविदित विभवे नापि विज्ञान तत्त्वे
विश्वे विश्वान्तरात्मे सुरवरनमिते निष्कले नित्यशुद्धे ॥ ६ ॥
ह्रीं ह्रीं ह्रीं जाप्यतुष्टे हिमरुचि मुकुटे वल्लकी व्यग्रहस्ते
मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिं प्रशस्ताम् ।
विद्ये वेदान्तवेद्ये परिणतपठिते मोक्षदे मुक्तिमार्गे ।
मार्गातीत स्वरूपे भव मम वरदा शारदे शुभ्रहारे ॥ ७ ॥
धीं धीं धीं धारणाख्ये धृतिमतिनतिभिर्नामभिः कीर्तनीये
नित्येऽनित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे ।
पुण्ये पुण्य प्रवाहे हरिहर नमिते नित्यशुद्धे सुवर्णे
मातर्मात्रार्धतत्त्वे मतिमति मतिदे माधवप्रीतिमोदे ॥ ८ ॥
ह्रूं ह्रूं ह्रूं स्वस्वरूपे दह दह दुरितं पुस्तकव्यग्रहस्ते
संतुष्टाकारचित्ते स्मितमुखि सुभगे जृम्भिणि स्तम्भविद्ये ।
मोहे मुग्ध प्रवाहे कुरु मम विमतिध्वान्त विध्वंस मीडे
गीर्गौर्वाग्भारति त्वं कविवररसना सिद्धिदे सिद्धिसाध्ये ॥ ९ ॥
स्तौमि त्वां त्वां च वन्दे मम खलु रसनां नो कदाचित्त्यजेथा
मा मे बुद्धिर्विरुद्धा भवतु न च ममोदेवि मे यातु पापम् ।
मामे दुःखं कदाचित्क्वचिदपि विषयेऽप्यस्तु मे नाकुलत्वं
शास्त्रे वादे कवित्वे प्रसरतु मम धीर्मास्तु कुण्ठा कदापि ॥ १० ॥
इत्येतैः श्लोकमुख्यैः प्रतिदिनभुषसि स्तौति यो भक्तिनम्रो
वाणीं वाचस्पते रप्यविदित विभवो वाक्पटुर्मूष्टकण्ठः ।
सः स्यादिष्टाद्यर्थ लाभैः सुतमिव सततं पाति तं सा च देवी
सौभाग्यं तस्य लोके प्रभवति कविता विघ्नमस्तं प्रयाति ॥ ११ ॥
र्निविघ्नं तस्य विद्या प्रभवति सततं चाश्रुत ग्रन्थबोधः
कीर्तिस्रैलोक्यमध्ये निवसति वदने शारदा तस्य साक्षात् ।
दीर्घायुर्लोकपूज्यः सकलगुणनिधिः सन्ततं राजमान्यो
वाग्देव्याः संप्रसादात्त्रिजगति विजयी जायते सत्सभासु ॥ १२ ॥
ब्रह्मचारी व्रती मौनी त्रयोदश्यां निरामिषः ।
सारस्वतो जनः पाठात्सकृदिष्टार्थ लाभवान् ॥ १३ ॥
पक्षद्वये त्रयोदश्यामेकविंशति संख्यया
अविच्छिन्नः पठेद्धीमान्ध्यात्वा देवीं सरस्वतीम् ॥ १४ ॥
सर्वपापविनिर्मुक्तः सुभगो लोकविश्रुतः ।
वाञ्छितं फलमाप्नोति लोकेडस्मिन्नात्र संशयः ॥ १५ ॥
ब्रह्मणेति स्वयं प्रोक्तं सरस्वत्याः स्तवं शुभम् ।
प्रय्त्नेन पठेन्नित्यं सोडमृतत्त्वाय कल्पते ॥ १६ ॥
॥ इति श्रीमद्ब्रह्मणाविरचितं सरस्वतीस्तोत्रं सम्पूर्णम् ॥