content

Sankatnashan Ganesh Stotra

A very famous prayer for Lord Ganesha.

संकटनाशनगणेशस्तोत्रम्

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।

भक्तावासं स्मरेनित्यमायुः कामार्थसिद्धये ।। 1 ।।


प्रथमं वक्रतुडं च एकदन्तं द्वितीयकम् ।

तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ।।2।।


लम्बोदरं पंचमं च षष्ठं विकटमेव च ।

सप्तमं विघ्नराजं च धूम्रवर्ण तथाष्टमम् ।।3।।


नवमं भालचन्द्रं च दशमं तु विनायकम् ।

एकादशं गणपतिं द्वादशं तु गजाननम् ।4।।


द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।

न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ।।5।।


विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।

पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ।।6।।


जपेट् गणपतिस्तोत्रं षडिभर्मासैः फलं लभेत् ।

संवत्सरेण सिद्धिं च लभते नात्र संशयः ।।7।।


अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।

तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ।।8।।