Authored by Adi Shankaracharya praising many qualities of River Ganga.
The overall hymn praises the Goddess nature on how she blesses her devotees, protects and purifies them, finally leading to the path of moksha.
Coming to the Ganga stotram meaning, each stanza of the stotram has an indepth meaning explaining the divine names of the goddess and her divinity.
The sanctity and the sacredness of the river Ganga is described in several holy texts and is also praised in several hymns.
It is believed that once in a lifetime one must take a holy bath in this river to attain the spiritual essence. At the same time, people strongly believe that immersing the ashes of their kin in the River Ganga helps the spirits to attain moksha.
देवि सुरेश्वरि भगवति गङ्गे, त्रिभुवनतारिणि तरलतरङ्गे ।
शङ्करमौलिविहारिणि विमले, मम मतिरास्तां तव पदकमले ॥ १ ॥
भागीरथिसुखदायिनि मातः, तव जलमहिमा निगमे ख्यातः ।
नाहं जाने तव महिमानं, पाहि कृपामयि मामज्ञानम् ॥ २ ॥
हरिपदपाद्यतरङ्गिणि गङ्गे, हिमविधु मुक्ता धवलतरङ्गे ।
दूरीकुरु मम दुष्कृतिभारं, कुरु कृपया भवसागरपारम् ॥ ३ ॥
तव जलममलं येन निपीतं, परमपदं खलु तेन गृहीतम् ।
मातर्गङ्गे त्वयि यो भक्तः, किल तं द्रष्टुं न यमः शक्तः ॥ ४ ॥
पतितोद्धारिणि जाह्नवि गङ्गे, खण्डितगिरिवरमण्डित भङ्गे ।
भीष्मजननि हे मुनिवरकन्ये, पतित निवारिणि त्रिभुवन धन्ये ॥ ५ ॥
कल्पलतामिव फलदां लोके, प्रणमति यस्त्वां न पतति शोके ।
पारावारविहारिणि गङ्गे, विमुख युवति कृत तरलापाङ्गे ॥ ६ ॥
तव चेन्मातः स्रोतः स्नातः, पुनरपि जठरे सोऽपि न जातः ।
नरकनिवारिणि जाह्नवि गङ्गे, कलुषविनाशिनि महिमोत्तुंङ्गे ॥ ७ ॥
पुनरसदङ्गे पुण्यतरङ्गे, जय जय जाह्नवि करुणापाङ्गे ।
इन्द्रमुकुटमणिराजितचरणे, सुखदे शुभदे भृत्यशरण्ये ॥ ८ ॥
रोगं शोकं तापं पापं, हर मे भगवति कुमतिकलापम् ।
त्रिभुवनसारे वसुधाहारे, त्वमसि गतिर्मम खलु संसारे ॥ ९ ॥
अलकानन्दे परमानन्दे, कुरु करुणामयि कातरवन्द्ये ।
तव तटनिकटे यस्य निवासः, खलु वैकुण्ठे तस्य निवासः ॥ १० ॥
वरमिह नीरे कमठो मीनः, किं वा तीरे शरटः क्षीणः ।
अथवा श्वपचो मलिनो दीन, स्तव न हि दूरे नृपतिकुलीनः ॥ ११ ॥
भो भुवनेश्वरि पुण्ये धन्ये, देवि द्रवमयि मुनिवरकन्ये ।
गङ्गास्तवमिम ममलं नित्यं, पठति नरो यः स जयति सत्यम् ॥ १२ ॥
येषां हृदये गङ्गाभक्ति, स्तेषां भवति सदा सुखमुक्तिः ।
मधुराकान्तापज्झटिकाभिः, परमानन्दकलित ललिताभिः ॥ १३ ॥
गङ्गास्तोत्रमिदं भवसारं, वाञ्छितफलदं विमलं सारम् ।
शङ्करसेवक शङ्कररचितं, पठति सुखी स्तव इति च समाप्तः ॥ १४ ॥
जय जय गङ्गे जय हर गङ्गे
जय जय गङ्गे जय हर गङ्गे
जय जय गङ्गे जय हर गङ्गे
जय जय गङ्गे जय हर गङ्गे
River Ganga has played an important role in our Vedic History. Learn more about River Ganga on Sameedh Blogs.