content

Devi Mahatmya Kavach

।। देवी माहात्म्यम् ।।

।। श्रीश्रीचण्डिकाध्यानम् ।।

ॐ बन्धूककुसुमाभासां पञ्चमुण्डाधिवासिनीम् ।

स्फुरच्चन्द्रकलारत्नमुकुटां मुण्डमालिनीम् ।।

त्रिनेत्रां रक्तवसनां पीनोन्नतघटस्तनीम् ।

पुस्तकं चक्षमालां च वरं चाभयकं क्रमात् ।।

दधतीं संस्मरेन्नित्यमुत्तराम्नायमानिताम् ।

अथवा

या चण्डी मधुकैटभादिदैत्यदलनी या माहिषोन्मूलिनी

या धूम्रेक्षण्चण्डमुण्डमथनी या रक्तबीजाशनी ।

शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धिदात्री परा

सा देवी नवकोटिमूर्तिसहिता मां पातु विश्वेश्वरी ।।


।। अथ देवी कवचम्‌ ।।


ॐ नमश्चण्डिकायै

मार्कण्डेय उवाच ।
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ १ ॥


॥ ब्रह्मोवाच ॥

अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ।
दिव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ २ ॥


प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी ।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ ३ ॥

पञ्चमं स्कन्दमातेति षष्ठं कात्यायनी तथा ।
सप्तमं कालरात्रिश्च महागौरीति चाष्टमम् ॥ ४ ॥

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ ५ ॥

अग्निना दह्यमानास्तु शत्रुमध्यगता रणे ।
विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ ६ ॥

न तेषां जायते किञ्चिदशुभं रणसङ्कटे ।
आपदं न च पश्यामि शोकदुःखभयङ्करीम् ॥ ७ ॥


यैस्तु भक्त्या स्मृता नित्यं तेषां वृद्धिः प्रजायते ।
ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः ॥ ८ ॥

प्रेतसंस्था तु चामुण्डा वाराही महिषासना ।
ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥ ९ ॥

नारसिंही महावीर्या शिवदूती महाबला ।

माहेश्वरी वृषारूढा कौमारी शिखिवाहना ॥ १० ॥

लक्ष्मी: पद्मासना देवी पद्महस्ता हरिप्रिया ।

श्वेतरूपधारा देवी ईश्वरी वृषवाहना ॥ ११ ॥

ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ।

इत्येता मातरः सर्वाः सर्वयोगसमन्विताः ॥ १२ ॥

नानाभरणशोभाढया नानारत्नोपशोभिता: ।

श्रैष्ठैश्च मौक्तिकैः सर्वा दिव्यहारप्रलम्बिभिः ॥ १३ ॥

इन्द्रनीलैर्महानीलैः पह्मरागैः सुशोभनैः ।

दृश्यन्ते रथमारूढा देव्याः क्रोधसमाकुला: ॥ १४ ॥

शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ।

खेटकं तोमरं चैव परशुं पाशमेव च ॥ १५ ॥


कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ।

दैत्यानां देहनाशाय भक्तानामभयाय च ॥ १६ ॥

धारयन्त्यायुद्धानीथं देवानां च हिताय वै ।

नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे ॥ १७ ॥

महाबले महोत्साहे महाभयविनाशिनि ।

त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ॥ १८ ॥

प्राच्यां रक्षतु मामैन्द्रि आग्नेय्यामग्निदेवता ।

दक्षिणेऽवतु वाराही नैऋत्यां खङ्गधारिणी ॥ १९ ॥

प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ।
उदीच्यां पातु कौबेरी ईशान्यां शूलधारिणी ॥ २० ॥


ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ।
एवं दश दिशो रक्षेच्चामुण्डा शववाहना ॥ २१ ॥

जाया मामग्रतः पातु: विजया पातु पृष्ठतः ।
अजिता वामपार्श्वे तु दक्षिणे चापराजिता ॥ २२ ॥

शिखां मे द्योतिनि रक्षेदुमा मूर्ध्नि व्यवस्थिता ।
मालाधारी ललाटे च भ्रुवो रक्षेद्यशस्विनी ॥ २३ ॥

नेत्रयोश्चित्रनेत्रा च यमघण्टा तु पार्श्वके ।

त्रिनेत्रा च त्रिसूलेन भ्रुवोर्मध्ये च चण्डिका ॥ २४ ॥

शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ।
कपोलौ कालिका रक्षेत्कर्णमूले तु शङ्करी ॥ २५ ॥


नासिकायां सुगन्‍धा च उत्तरोष्ठे च चर्चिका ।
अधरे चामृताबाला जिह्वायां च सरस्वती ॥ २६ ॥

दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका ।
घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ २७ ॥

कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला ।
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धारी ॥ २८ ॥


नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी ।
स्कन्धयोः खङ्गिनी रक्षेद्‍ बाहू मे वज्रधारिणी ॥ २९ ॥

हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च ।
नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेन्नरेश्वरी ॥ ३० ॥

स्तनौ रक्षेन्‍महादेवी मनःशोकविनाशिनी ।
हृदये ललिता देवी उदरे शूलधारिणी ॥ ३१ ॥

नाभौ च कामिनी रक्षेद्‍ गुह्यं गुह्येश्वरी तथा ।
मेढ्रं रक्षतु दुर्गन्धा पायुं मे गुह्यवाहिनी ॥ ३२ ॥


कट्यां भगवती रक्षेदूरू मे मेघवाहना षष
जङ्घे महाबला रक्षेत् जानू माधवनायिका ॥ ३३ ॥

गुल्फयोर्नारसिंही च पादपृष्ठे तु कौशिकी ।
पादाङ्गुलीः श्रीधरी च तलं पातालवासिनी ॥ ३४ ॥

नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी ।
रोमकूपेषु कौमारी त्वचं योगीश्वरी तथा ॥ ३५ ॥


रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ।
अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ ३६ ॥

पद्मावती पद्मकोशे कफे चूडामणिस्तथा ।
ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ॥ ३७ ॥

शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा ।
अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ॥ ३८ ॥

प्राणापानौ तथा व्यानमुदानं च समानकम् ।
वज्रहस्ता च मे रक्षेत् प्राणान् कल्याणशोभना ॥ ३९ ॥

रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी ।
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ ४० ॥

आयू रक्षतु वाराही धर्मं रक्षतु पार्वती ।
यशः कीर्तिं च लक्ष्मीं च सदा रक्षतु वैष्णवी ॥ ४१ ॥

गोत्रामिन्द्राणि मे रक्षेत् पशून् रक्षेच्च चण्डिका ।
पुत्रान् रक्षेन्महालक्ष्मीर्भर्यां रक्षतु भैरवी ॥ ४२ ॥

धनेश्वरी धनं रक्षेत् कौमारी कन्यकां तथा ।

पन्थानं सुपथा रक्षेन्मार्गं क्षेमङ्करी तथा ॥ ४३ ॥

राजद्वारे महालक्ष्मीर्विजया सतत स्थिता ।

रक्षाहीनं तु यत् स्थानं वर्जितं कवचेन तु ॥ ४४ ॥

तत्सर्वं रक्ष मे देवी जयन्ती पापनाशिनी ।
सर्वरक्षाकरं पुण्यं कवचं सर्वदा जपेत् ॥ ४५ ॥


इदं रहस्यं विप्रर्षे भक्त्या तव मयोदितम् ।

पदमेकं न गच्छेत् तु यदिच्छेच्छुभमात्मनः ॥ ४६ ॥

कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ।

तत्र तत्रार्थलाभश्च विजयः सार्वकालिकः ॥ ४७ ॥

यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ।
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ॥ ४८ ॥


निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः ।
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ॥ ४९ ॥


इदं तु देव्याः कवचं देवानामपि दुर्लभम् ।
य: पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ॥ ५० ॥


दैवीकला भवेत्तस्य त्रैलोक्ये चापराजितः ।
जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः ॥ ५१ ॥

नश्यन्ति व्याधय: सर्वे लूताविस्फोटकादयः ।
स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् ॥ ५२ ॥

अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ।
भूचराः खेचराश्चैव कुलजाश्चौपदेशिकाः ॥ ५३ ॥

सहजा कुलजा माला डाकिनी शाकिनी तथा ।
अन्तरिक्षचरा घोरा डाकिन्यश्च महारवाः ॥ ५४ ॥

ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसा: ।
ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ॥ ५५ ॥


नश्यन्ति दर्शनात्तस्य कवचेनावृतो हि यः ।

मानोन्नतिर्भावेद्राज्ञस्तेजोवृद्धिः परा भवेत् ॥ ५६ ॥

यशोवृद्धिर्भवेत् पुंसां कीर्तिवृद्धिश्च जायते ।

तस्मात् जपेत् सदा भक्तः कवचं कामदं मुने ॥ ५७ ॥

जपेत् सप्तशतीं चण्डीं कृत्वा तु कवचं पूरा ।

निर्विघ्नेन भवेत् सिद्धिश्चण्डीजपसमुद्भवा ॥ ५८ ॥


यावद्भूमण्डलं धत्ते सशैलवनकाननम् ।
तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी ॥ ५९ ॥

देहान्ते परमं स्थानं सुरैरपि सुदुर्लभम् ।
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥ ६० ॥

तत्र गच्छति गत्वासौ पुनश्चागमनं नहि ।

लभते परमं स्थानं शिवेन समतां व्रजेत् ॥ ६१ ॥

॥ इति श्रीमार्कण्डेयपुराणे हरिहरब्रह्मविरचितं देवीकवचं समाप्तम् ॥