content

Chandipath Chapter - 10

Chandipath Chapter - 10

‘ॐ’ ऋषिरुवाच ।। १ ।।


निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम् ।

हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः ।। २ ।।


बलावलेपद्दुष्टे त्वं मा दुर्गे गर्वमावह ।

अन्यासां बलमाश्रित्य युद्ध्यसे यातिमानिनी ।। ३ ।।


देव्युवाच ।। ४ ।।


एकैवाहं जगत्यत्र द्वितीया का ममापरा ।

पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः ।। ५ ।।


ततः समस्तास्ता देव्यो ब्रह्माणीप्रमुखा लयम् ।

तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका ।। ६ ।।


देव्युवाच ।। ७ ।।


अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता ।

तत्संहृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव ।। ८ ।।


ऋषिरुवाच ।। ९ ।।


ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः ।

पश्यतां सर्वदेवानामसुराणां च दारुणाम् ।। १० ।।


शरवर्षैः शितैः शस्त्रैस्तथास्त्रैश्चैव दारुणैः ।

तयोर्युद्धमभूद्भूयः सर्वलोकभयङ्करम् ।। ११ ।।


दिव्यान्यस्त्राणि शतशो मुमुचे यान्यथाम्बिका ।

बभञ्च तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभिः ।। १२ ।।


मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी ।

बभञ्च लीलयैवोग्रहुङ्कारोच्चारणादिभिः ।। १३ ।।


ततः शरशतैर्देवीमाच्छादयत सोऽसुरः ।

सापि तत्कुपिता देवी धनुश्चिच्छेद चेषुभिः ।। १४ ।।


छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे ।

चिच्छेद देवी चक्रेण तामप्यस्य करे स्थिताम् ।। १५ ।।


ततः खड्गमुपादाय शतचन्द्रं च भानुमत् ।

अभ्यदावत्तदा देवीं दैत्यनामधिपेश्वरः ।। १६ ।।


तस्यापतत एवाशु खड्गं चिच्छेद चण्डिका ।

धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम् ।। १७ ।।


हताश्वः स तदा दैत्यश्छिन्नधन्वा विसारथिः ।

जग्राह मुद्गरं घोरमम्बिकानिधनोद्यतः ।। १८ ।।


चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः ।

तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् ।। १९ ।।


स मुष्टिं पातयामास हृदये दैत्यपुङ्गवः ।

देव्यास्तं चापि सा देवी तलेनोरस्यताडयत् ।। २० ।।


तलप्रहाराभिहतो निपपात महीतले ।

स दैत्यराजः सहसा पुनरेव तथोत्थितः ।। २१ ।।


उत्पत्य च प्रगृह्योच्चैर्देवीं गगनमास्थितः ।

तत्रापि सा निराधारा युयुधे तेन चण्डिका ।। २२ ।।


नियुद्धं खे तदा दैत्यश्चण्डिका च परस्परम् ।

चक्रतुः प्रथमं सिद्धमुनिविस्मयकारकम् ।। २३ ।।


ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह ।

उत्पात्य भ्रामयामास चिक्षेप धरणीतले ।। २४ ।।


स क्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगितः ।

अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया ।। २५ ।।


तमायान्तं ततो देवी सर्वदैत्यजनेश्वरम् ।

जगत्यां पातयामास भित्त्वा शूलेन वक्षसि ।। २६ ।।


स गतासुः पपातोर्व्यां देवी शूलाग्रविक्षतः ।

चालयन् सकलां पृथ्वीं साब्धिद्वीपां सपर्वताम् ।। २७ ।।


ततः प्रसन्नमखिलं हते तस्मिन् दुरात्मनि ।

जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः ।। २८ ।।


उत्पातमेघाः सोल्का ये प्रागासंस्ते शमं ययुः ।

सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ।। २९ ।।


ततो देवगणाः सर्वे हर्षनिर्भरमानसाः ।

बभूवुर्निहते तस्मिन् गन्धर्वा ललितं जगुः ।। ३० ।।


अवादयंस्तथैवान्ये ननृतुश्चाप्सरोगणाः ।

ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः ।। ३१ ।।


जज्वलुश्चाग्नयः शान्ताः शान्ता दिग्जनितस्वनाः ।। ३२ ।।


।। स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शुम्भवधो नाम दशमोऽध्यायः ।। १० ।।