content

Chandipath Chapter - 08

Chandipath Chapter - 08

अष्टमोऽध्यायः

‘ॐ’ ऋषिरुवाच ।। १ ।।


चण्डे च निहते दैत्ये मुण्डे च विनिपातिते ।

बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ।। २ ।।


ततः कोपपराधीनचेताः शुम्भः प्रतापवान् ।

उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह ।। ३ ।।


अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः ।

कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः ।। ४ ।।


कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै ।

शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया ।। ५ ।।


कालका दौर्हृदा मौर्याः कालिकेयास्तथासुराः ।

युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम ।। ६ ।।


इत्याज्ञाप्यासुरपतिः शुम्भो भैरवशासनः ।

निर्जगाम महासैन्यसहस्रैर्बहुभिर्वृतः ।। ७ ।।


आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् ।

ज्यास्वनैः पूरयामास धरणीगगनान्तरम् ।। ८ ।।


ततः सिंहो महानादमतीव कृतवान्नृप ।

घण्टास्वनेन तान्नादानम्बिका चोपबृंहयत् ।। ९ ।।


धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्मुखा ।

निनादैर्भीषणैः काली जिग्ये विस्तारितानना ।। १० ।।


तं निनादमुपश्रुत्य दैत्यसैन्यैश्चतुर्दिशम् ।

देवी सिंहस्तथा काली सरोषैः परिवारिताः ।। ११ ।।


एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् ।

भवायामरसिंहानामतिवीर्यबलान्विताः ।। १२ ।।


ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्तयः ।

शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः ।। १३ ।।


यस्य देवस्य तद्रूपं यथा भूषणवाहनम् ।

तद्वदेव हि तच्छक्तरसुरान्योद्धुमाययौ ।। १४ ।।


हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः ।

आयाता ब्रह्मणः शक्तिर्ब्रह्माणी साभिधीयते ।। १५ ।।


माहेश्वरी वृषारूढा त्रिशूलवरधारिणी ।

महाहिवलया प्राप्ता चन्द्ररेखाविभूषणा ।। १६ ।।


कौमारी शक्तिहस्ता च मयूरवरवाहना ।

योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ।। १७ ।।


तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता ।

शङ्खचक्रगदाशार्ङ्गखड्गहस्ताऽभ्युपाययौ ।। १८ ।।


यज्ञवाराहमतुलं रूपं या बिभ्रतो हरेः ।

शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ।। १९ ।।


नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः ।

प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहतिः ।। २० ।।


वज्रहस्ता तथैवैन्द्री गजराजोपरि स्थिता ।

प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा ।। २१ ।।


ततः परिवृतस्ताभिरीशानो देवशक्तिभिः ।

हन्यन्तामसुराः शीघ्रं मम प्रीत्याऽऽह चण्डिकाम् ।। २२ ।।


ततो देवीशरीरात्तु विनिष्क्रान्तातिभीषणा ।

चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी ।। २३ ।।


सा चाह धूम्रजटिलमीशानमपराजिता ।

दूत त्वं गच्छ भगवन्पार्श्वं शुम्भनिशुम्भयोः ।। २४ ।।


ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ ।

ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः ।। २५ ।।


त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः ।

यूयं प्रयात पातालं यदि जीवितुमिच्छथ ।। २६ ।।


बलावलेपादथ चेद्भवन्तो युद्धकाङ्क्षिणः ।

तदागच्छत तृप्यन्तु मच्छिवाः पिशितेन वः ।। २७ ।।


यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् ।

शिवदूतीति लोकेऽस्मिंस्ततः सा ख्यातिमागता ।। २८ ।।


तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः ।

अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ।। २९ ।।


ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः ।

ववर्षुरुद्धतामर्षास्तां देवीममरारयः ।। ३० ।।


सा च तान् प्रहितान् बाणाञ्छूलशक्तिपरश्वधान् ।

चिच्छेद लीलयाऽऽध्मातधनुर्मुक्त्तैर्महेषुभिः ।। ३१ ।।


तस्याग्रतस्तथा काली शूलपातविदारितान् ।

खट्वाङ्गपोथितांश्चारीन्कुर्वती व्यचरत्तदा ।। ३२ ।।


कमण्डलुजलाक्षेपहतवीर्यान् हतौजसः ।

ब्रह्माणी चाकरोच्छत्रून्येन येन स्म धावति ।। ३३ ।।


माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी ।

दैत्याञ्जघान कौमारी तथा शक्त्याऽतिकोपना ।। ३४ ।।


ऐन्द्री कुलिशपातेन शतशो दैत्यदानवाः ।

पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः ।। ३५ ।।


तुण्डप्रहारविध्वस्ता दंष्ट्राग्रक्षतवक्षसः ।

वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः ।। ३६ ।।


नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान् ।

नारसिंही चचाराजौ नादापूर्णदिगम्बरा ।। ३७ ।।


चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः ।

पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा ।। ३८ ।।


इति मातृगणं क्रुद्धं मर्दयन्तं महासुरान् ।

दृष्ट्वाऽभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः ।। ३९ ।।


पलायनपरान्दृष्ट्वा दैत्यान्मातृगणार्दितान् ।

योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ।। ४० ।।


रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः ।

समुत्पतति मेदिन्यां तत्प्रमाणो स्तदासुरः ।। ४१ ।।


युयुधे स गदापाणिरिन्द्रशक्त्या महासुरः ।

ततश्चन्द्री स्ववज्रेण रक्तबीजमताडयत् ।। ४२ ।।


कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् ।

समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः ।। ४३ ।।


यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः ।

तावन्तः पुरुषा जातास्तद्वीर्यबलविक्रमाः ।। ४४ ।।


ते चापि युयुधुस्तत्र पुरुषा रक्तसम्भवाः ।

समं मातृभिरत्युग्रशस्त्रपातातिभीषणम् ।। ४५ ।।


पुनश्च वज्रपातेन क्षतमस्य शिरो यदा ।

ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः ।। ४६ ।।


वैष्णवी समरे चैनं चक्रेणाभिजघान ह ।

गदया ताडयामास ऐन्द्री तमसुरेश्वरम् ।। ४७ ।।


वैष्णवीचक्रभिन्नस्य रुधिरस्रावसम्भवैः ।

सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः ।। ४८ ।।


शक्त्या जघान कौमारी वाराही च तथासिना ।

माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् ।। ४९ ।।


स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् ।

मातॄः कोपसमाविष्टो रक्तबीजो महासुरः ।। ५० ।।


तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि ।

पपात यो वै रक्तौघस्तेनासञ्छतशोऽसुराः ।। ५१ ।।


तैश्चासुरास्रुक्सम्भूतैरसुरैः सकलं जगत् ।

व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ।। ५२ ।।


तान् विषण्णान् सुरान् दृष्ट्वा चण्डिका प्राहसत्वरम् ।

उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु ।। ५३ ।।


मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् ।

रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिता ।। ५४ ।।


भक्षयन्ती चर रणे तदुत्पन्नान्महासुरान् ।

एवमेष क्षयं दैत्यः क्षीणरक्तो गमिष्यति ।। ५५ ।।


भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे ।

इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ।। ५६ ।।


मुखेन काली जगृहे रक्तबीजस्य शोणितम् ।

ततोऽसावाजघानाथ गदया तत्र चण्डिकाम् ।। ५७ ।।


न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि ।

तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ।। ५८ ।।


यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति ।

मुखे समुद्गता येऽस्या रक्तपातान्महासुराः ।। ५९ ।।


तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् ।

देवी शूलेन वज्रेण बाणैरसिभिर्ऋृष्टिभिः ।। ६० ।।


जघान रक्तबीजं तं चामुण्डापीतशोणितम् ।

स पपात महीप्रिष्ठे शस्त्रसङ्घसमाहतः ।। ६१ ।।


नीरक्तश्च महीपाल रक्तबीजो महासुरः ।

ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप ।। ६२ ।।


तेषां मातृगणो जातो ननर्तासृङ्मदोद्धतः ।। ६३ ।।


।। स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये रक्तबीजवधो नामाष्टमोऽध्यायः ।। ८ ।।