content

Chandipath Chapter - 06

Chandipath Chapter - 06

षष्ठोऽध्यायः

ॐ ऋषिरुवाच ।। १ ।।


इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः ।

समाचष्ट समागम्य दैत्यराजाय विस्तरात् ।। २ ।।


तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः ।

सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् ।। ३ ।।


हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारतिः ।

तामानय बलाद्दुष्टां केशाकर्षणविह्वलाम् ।। ४ ।।


तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठतेऽपरः ।

स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा ।। ५ ।।


ऋषिरुवाच ।। ६ ।।


तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः ।

वृतः षष्टया सहस्राणामसुराणां दृतं ययौ ।। ७ ।।


स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थिताम् ।

जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः ।। ८ ।।


न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति ।

ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् ।। ९ ।।


देव्युवाच ।। १० ।।


दैत्येश्वरेण प्रहितो बलवान्बलसंवृतः ।

बलान्नयसि मामेवं ततः किं ते करोम्यहम् ।। ११ ।।


ऋषिरुवाच ।। १२ ।।


इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः ।

हुङ्कारेणैव तं भस्म सा चकाराम्बिका ततः ।। १३ ।।


अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिकाम् ।

ववर्ष सायकैस्तीक्ष्णैस्तथा शक्त्तिपरश्वधैः ।। १४ ।।


ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम् ।

पपातासुरसेनायां सिंहो देव्याः स्ववाहनः ।। १५ ।।


कांश्चित्करप्रहारेण दैत्यानास्येन चापरान् ।

आक्रान्त्या चाधरेणान्यान् स जघान महासुरान् ।। १६ ।।


केषाञ्चित्पाटयामास नखैः कोष्ठानि केसरी ।

तथा तलप्रहारेण शिरांसि कृतवान्पृथक् ।। १७ ।।


विच्छिन्नबाहुशिरसः कृतास्तेन तथापरे ।

पापौ च रुधिरं कोष्ठादन्येषां धुतकेसरः ।। १८ ।।


क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना ।

तेन केसरिणा देव्या वाहनेनातिकोपिना ।। १९ ।।


श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम् ।

बलं च क्षयितं कृत्स्नं देवीकेसरिणा ततः ।। २० ।।


चुकोप दैत्याधिपतिः शुम्भः प्रस्फुरिताधरः ।

आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ ।। २१ ।।


हे चण्ड हे मुण्ड बलैर्बहुभिः परिवारितौ ।

तत्र गच्छत गत्वा च सा समानीयतां लघु ।। २२ ।।


केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि ।

तदाशेषायुधैः सर्वैरसुरैर्विनिहन्यताम् ।। २३ ।।


तस्यां हतायां दुष्टायां सिंहे च विनिपातिते ।

शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम् ।। २४ ।।


।। स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शुम्भनिशुम्भसेनानीधूम्रलोचनवधो नाम षष्ठोऽध्यायः ।। ६ ।।