content

Chandipath Chapter - 04

Chandipath Chapter - 04

चतुर्थोऽध्यायः

'ॐ' ऋषिरुवाच ।। १ ।।


शक्रादयः सुरगणा निहतेऽतिवीर्ये

तस्मिन्दुरात्मनि सुरारिबले च देव्या ।

तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा

वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ।। २ ।।


देव्या यया ततमिदं जगदात्मशक्त्या

निःशेषदेवगणशक्त्तिसमूहमूर्त्या ।

तामम्बिकामखिलदेवमहर्षिपूज्यां

भक्त्या नताः स्म विदधातु शुभानि सा नः ।। ३ ।।


यस्याः प्रभावमतुलं भगवाननन्तो

ब्रह्मा हरश्च न हि वक्तुमलं बलं च ।

सा चण्डिकाखिलजगत्परिपालनाय

नाशाय चाशुभभयस्य मतिं करोतु ।। ४ ।।


या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः

पापात्मनां कृतधियां हृदयेषु बुद्धिः ।

श्रद्धा सतां कुलजनप्रभवस्य लज्जा

तां त्वां नताः स्म परिपालय देवि विश्वम् ।। ५ ।।


किं वर्णयाम तव रूपमचिन्त्यमेतत्

किंचातिवीर्यमसुरक्षयकारि भूरि ।

किं चाहवेषु चरितानि तवाद्भुतानि

सर्वेषु देव्यसुरदेवगणादिकेषु ।। ६ ।।


हेतुः समस्तजगतां त्रिगुणापि दोषै-

र्न ज्ञायसे हरिहरादिभिरप्यपारा ।

सर्वाश्रयाखिलमिदं जगदंशभूत-

मव्याकृता हि परमा प्रकृतिस्त्वमाद्या ।। ७ ।।


यस्याः समस्तसुरता समुदीरणेन

तृप्तिं प्रयाति सकलेषु मखेषु देवि ।

स्वाहासि वै पितृगणस्य च तृप्तिहेतु-

रुच्चार्यसे त्वमत एव जनैः स्वधा च ।। ८ ।।


या मुक्त्तिहेतुरविचिन्त्यमहाव्रता त्वं

अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः ।

मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै-

र्विद्यासि सा भगवती परमा हि देवि ।। ९ ।।


शब्दात्मिका सुविमलग्यर्जुषां निधान-

मुद्गीथरम्यपदपाठवतां च साम्नाम् ।

देवी त्रयी भगवती भवभावनाय

वार्ता च सर्वजगतां परमार्तिहन्त्री ।। १० ।।


मेधासि देवि विदिताखिलशास्त्रसारा

दुर्गासि दुर्गभवसागरनौरसङ्गा ।

श्रीः कैटभारिहृदयैककृताधिवासा

गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा ।। ११ ।।


ईषत्सहासममलं परिपूर्णचन्द्र-ॉ

बिम्बानुकारि कनकोत्तमकान्तिकान्तम् ।

अत्यद्भुतं प्रहृतमात्तरुषा तथापि

वक्त्रं विलोक्य सहसा महिषासुरेण ।। १२ ।।


दृष्ट्वा तु देवि कुपितं भ्रुकुटीकराल-ॉ

मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः ।

प्राणान्मुमोच महिषस्तदतीव चित्रं

कैर्जीव्यते हि कुपितान्तकदर्शनेन ।। १३ ।।


देवि प्रसीद परमा भवती भवाय

सद्यो विनाशयसि कोपवती कुलानि ।

विज्ञातमेतदधुनैव यदस्तमेत-

न्नीतं बलं सुविपुलं महिषासुरस्य ।। १४ ।।


ते सम्मता जनपदेषु धनानि तेषां

तेषां यशांसि न च सीदति धर्मवर्गः ।

धन्यास्त एव निभृतात्मजभृत्यदारा

येषां सदाभ्युदयदा भवती प्रसन्ना ।। १५ ।।


धम्यार्णि देवि सकलानि सदैव कर्मा-

ण्यत्यादृतः प्रतिदिनं सुकृती करोति ।

स्वर्गं प्रयाति च ततो भवती प्रसादा-

ल्लोकत्रयेऽपि फलदा ननु देवि तेन ।। १६ ।।


दुर्गे स्मृता हरसि भीतिमशेषजन्तोः

स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।

दारिद्र्यदुःखभयहारिणि का त्वदन्या

सर्वोपकारकरणाय सदाऽऽर्द्रचित्ता ।। १७ ।।


एभिर्हतैर्जगदुपैति सुखं तथैते

कुर्वन्तु नाम नरकाय चिराय पापम् ।

संग्राममृत्युमधिगम्य दिवं प्रयान्तु

मत्वेति नूनमहितान्विनिहंसि देवि ।। १८ ।।


दृष्ट्वैव किं न भवती प्रकरोति भस्म

सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् ।

लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता

इत्थं मतिर्भवति तेष्वपि तेऽतिसाध्वी ।। १९ ।।


खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः

शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् ।

यन्नागता विलयमंशुमदिन्दुखण्ड-
योग्याननं तव विलोकयतां तदेतत् ।। २० ।।


दुर्वृत्तवृत्तशमनं तव देवि शीलं

रूपं तथैतदविचिन्त्यमतुल्यमन्यैः ।

वीर्यं च हन्तृ हृतदेवपराक्रमाणां

वैरिष्वपि प्रकटितैव दया त्वयेत्थम् ।। २१ ।।


केनोपमा भवतु तेऽस्य पराक्रमस्य

रूपं च शत्रुभयकार्यतिहारि कुत्र ।

चित्ते कृपा समरनिष्ठुरता च दृष्टा
त्वय्येव देवि वरदे भुवनत्रयेऽपि ।। २२ ।।


त्रैलोक्यमेतदखिलं रिपुनाशनेन

त्रातं त्वया समरमूर्धनि तेऽपि हत्वा ।

नीता दिवं रिपुगणा भयमप्यपास्तम्

अमस्माकमुन्मदसुरारिभवं नमस्ते ।। २३ ।।


शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।

घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ।। २४ ।।


प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।

भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ।। २५ ।।


सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।

यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् ।। २६ ।।


खड्गशूलगदादीनि यानि चास्त्रानि तेऽम्बिके ।

करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः ।। २७ ।।


ऋषिरुवाच ।। २८ ।।


एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः ।

अर्चिता जगतां धात्री तथा गन्धानुलेपनैः ।। २९ ।।


भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैस्तु धूपिता ।

प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् ।। ३० ।।


देव्युवाच ।। ३१ ।।


व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् ।। ३२ ।।


देवा उचुः ।। ३३ ।।


भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते ।। ३४ ।।


यदयं निहतः शत्रुरस्माकं महिषासुरः ।

यदि चापि वरो देयस्त्वयाऽस्माकं महेश्वरि ।। ३५ ।।


संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः ।

यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने ।। ३६ ।।


तस्य वित्तद्धिर्विभवैर्धनदारादिसम्पदाम् ।

वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके ।। ३७ ।।


ऋषिरुवाच ।। ३८ ।।


इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः ।

तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप ।। ३९ ।।


इत्येतत्कथितं भूप सम्भूता सा यथा पुरा ।

देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी ।। ४० ।।


पुनश्च गौरीदेहा सा समुद्भूता यथाभवत् ।

वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः ।। ४१ ।।


रक्षणाय च लोकानां देवानामुपकारिणी ।

तच्छृणुष्व मयाऽऽख्यातं यथावत्कथयामि ते ।। ४२ ।।


। ह्रीं ॐ ।

।। स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः ।। ४ ।।