content

Chandipath Chapter - 03

Chandipath Chapter - 03

तृतीयोऽध्यायः

‘ॐ’ ऋषिरुवाच ।। १ ।।


निहन्यमानं तत्सैन्यमवलोक्य महासुरः ।

सेनानीश्चिक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम् ।। २ ।।


स देवीं शरवर्षेण ववर्ष समरेऽसुरः ।

यथा मेरुगिरेः श्रृङ्गं तोयवर्षेण तोयदः ।। ३ ।।


तस्यच्छित्त्वा ततो देवी लीलयैव शरोत्करान् ।

जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् ।। ४ ।।


चिच्छेद च धनुः सद्यो ध्वजं चातिसमुच्छ्रितम् ।

विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगैः ।। ५ ।।


सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।

अभ्यधावत तं देवीं खड्गचर्मधरोऽसुरः ।। ६ ।।


सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि ।

आजघान भुजे सव्ये देवीमप्यतिवेगवान् ।। ७ ।।


तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन ।

ततो जग्राह शूलं स कोपादरुणलोचनः ।। ८ ।।


चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः ।

जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् ।। ९ ।।


दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत ।

तेन तच्छतधा नीतं  शूलं स च महासुरः ।। १० ।।


हते तस्मिन्महावीर्ये महिषस्य चमूपतौ ।

आजगाम गजारूढश्चामरस्त्रिदशार्दनः ।। ११ ।।


सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम् ।

हुंकाराभिहतां भूमौ पातयामास निष्प्रभाम् ।। १२ ।।


भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः ।

चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ।। १३ ।।


ततः सिंहः समुत्पत्य गजकुम्भान्तरस्थितः ।

बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ।। १४ ।।


युध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ ।

युयुधातेऽतिसंरब्धौ प्रहरैरतिदारुणैः ।। १५ ।।


ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा ।

करप्रहारेण शिरश्चामरस्य पृथक् कृतम् ।। १६ ।।


उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः ।

दन्तमुष्टितलैश्चैव करालश्च निपातितः ।। १७ ।।


देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् ।

वाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् ।। १८ ।।


उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम् ।

त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ।। १९ ।।


बिडालस्यासिना कायात् पातयामास वै शिरः ।

दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् ।। २० ।।


एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः ।

माहिषेण स्वरूपेण त्रासयामास तान् गणान् ।। २१ ।।


कांश्चित्तुण्डाप्रहारेण खुरक्षेपैस्तथापरान् ।

लाङ्गूलताडितांश्चान्यान् श्रृङ्गाभ्यां च विदारितान् ।। २२ ।।


वेगेन कांश्चिदपरान्नादेन भ्रमणेन च ।

निःश्वासपवनेनान्यान्पातयामास भूतले ।। २३ ।।


निपात्य प्रमथानीकमभ्यधावत सोऽसुरः ।

सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका ।। २४ ।।


सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः ।

श्रृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च ।। २५ ।।


वेगभ्रमणविक्षुण्णा मही तस्य व्यशीर्यत ।

लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः ।। २६ ।।


धुतश्रृङ्गविभिन्नाश्च खण्डं खण्डं ययुर्घनाः ।

श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः ।। २७ ।।


इति क्रोधसमाध्मातमापतन्तं महासुरम् ।

दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत् ।। २८ ।।


सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम् ।

तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे ।। २९ ।।


ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः ।

छिनत्ति तावत् पुरुषः खड्गपाणिरदृश्यत ।। ३० ।।


तत एवाशु पुरुषं देवी चिच्छेद सायकैः ।

तं खड्गचर्मणा सार्धं ततः सोऽभून्महागजः ।। ३१ ।।


करेण च महासिंहं तं चकर्ष जगर्ज च ।

कर्षतस्तु करं देवी खड्गेन निरकृन्तत ।। ३२ ।।


ततो महासुरो भूयो माहिषं वपुरास्थितः ।

तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ।। ३३ ।।


ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् ।

पपौ पुनः पुनश्चैव जहासारुणलोचना ।। ३४ ।।


ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः ।

विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूधरान् ।। ३५ ।।


सा च तान्प्रहितांस्तेन चूर्णयन्ती शरोत्करैः ।

उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् ।। ३६ ।।


देव्युवाच ।। ३७ ।।


गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् ।

मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः ।। ३८ ।।


ऋषिरुवाच ।। ३९ ।।


एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम् ।

पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत् ।। ४० ।।


ततः सोऽपि पदाऽऽक्रान्तस्तया निजमुखात्ततः ।

अर्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ।। ४१ ।।


अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः ।

तया महासिना देव्या शिरश्छित्त्वा निपातितः ।। ४२ ।।


ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् ।

प्रहर्षं च परं जग्मुः सकला देवतागणाः ।। ४३ ।।


तुष्टुवुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः ।

जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ।। ४४ ।।


।। स्वस्ति श्रीमार्कण्डेयपुराणे सारर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरवधो नाम तृतीयोऽध्यायः ।। ३ ।।