Chandipath Chapter – 04. Also known as Shakraday Stuti.
चतुर्थोऽध्यायः
‘ॐ’ ऋषिरुवाच ।। १ ।।
शक्रादयः सुरगणा निहतेऽतिवीर्ये
तस्मिन्दुरात्मनि सुरारिबले च देव्या ।
तां तुष्टुवुः प्रणतिनम्र शिरोधरांसा
वाग्भिः प्रहर्ष पुल कोद्गम चारुदेहाः ।। २ ।।
देव्या यया ततमिदं जगदात्मशक्त्या
निःशेष देवगण शक्त्ति समूहमूर्त्या ।
तामम्बिकाम खिल देवमहर्षिपूज्यां
भक्त्या नताः स्म विदधातु शुभानि सा नः ।। ३ ।।
यस्याः प्रभावमतुलं भगवाननन्तो
ब्रह्मा हरश्च न हि वक्तुमलं बलं च ।
सा चण्डिका खिल जगत्परिपालनाय
नाशाय चाशुभभयस्य मतिं करोतु ।। ४ ।।
या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः ।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि विश्वम् ।। ५ ।।
किं वर्णयाम तव रूपमचिन्त्यमेतत्
किं चाति वीर्य मसुरक्षयकारि भूरि ।
किं चाहवेषु चरितानि तवाद्भुतानि
सर्वेषु देव्य सुर देव गणादिकेषु ।। ६ ।।
हेतुः समस्तजगतां त्रिगुणापि दोषै-
र्न ज्ञायसे हरि हरा दिभिरप्यपारा ।
सर्वाश्रया खिलमिदं जगदंशभूत-
मव्याकृता हि परमा प्रकृति स्त्वमाद्या ।। ७ ।।
यस्याः समस्तसुरता समुदीरणेन
तृप्तिं प्रयाति सकलेषु मखेषु देवि ।
स्वाहासि वै पितृगणस्य च तृप्तिहेतु-
रुच्चार्यसे त्वमत एव जनैः स्वधा च ।। ८ ।।
या मुक्त्ति हेतुर विचिन्त्य महाव्रता त्वं
अभ्यस्यसे सुनि यतेन्द्रिय तत्त्वसारैः ।
मोक्षार्थि भिर्मुनि भिरस्त समस्तदोषै-
र्विद्यासि सा भगवती परमा हि देवि ।। ९ ।।
शब्दात्मिका सुविमलग्यर्जुषां निधान-
मुद्गीथ रम्य पद पाठवतां च साम्नाम् ।
देवी त्रयी भगवती भव भावनाय
वार्ता च सर्वजगतां परमार्ति हन्त्री ।। १० ।।
मेधासि देवि विदिता खिल शास्त्र सारा
दुर्गासि दुर्ग भव सागर नौर सङ्गा ।
श्रीः कैटभारि हृदयै ककृताधिवासा
गौरी त्वमेव शशि मौलि कृतप्रतिष्ठा ।। ११ ।।
ईषत्सहा सममलं परिपूर्णचन्द्र-
बिम्बानुकारि कनकोत्तम कान्ति कान्तम् ।
अत्यद्भुतं प्रहृतमात्तरुषा तथापि
वक्त्रं विलोक्य सहसा महिषासुरेण ।। १२ ।।
दृष्ट्वा तु देवि कुपितं भ्रुकुटीकरालम्
उद्यत् शशांक स दृशच्छवि यन्न सद्यः ।
प्राणान्मुमोच महिष स्तदतीव चित्रं
कैर्जीव्यते हि कुपितान्तक दर्शनेन ।। १३ ।।
देवि प्रसीद परमा भवती भवाय
सद्यो विनाशयसि कोपवती कुलानि ।
विज्ञात मेतदधुनैव यदस्तमेत-
न्नीतं बलं सुविपुलं महिषासुरस्य ।। १४ ।।
ते सम्मता जनपदेषु धनानि तेषां
तेषां यशांसि न च सीदति धर्मवर्गः ।
धन्यास्त एव निभृतात्मजभृत्यदारा
येषां सदाभ्युदयदा भवती प्रसन्ना ।। १५ ।।
धम्यार्णि देवि सकलानि सदैव कर्मा-
ण्यत्यादृतः प्रतिदिनं सुकृती करोति ।
स्वर्गं प्रयाति च ततो भवती प्रसादा-
ल्लोकत्रयेऽपि फलदा ननु देवि तेन ।। १६ ।।
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्र्य दुःख भयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदाऽऽर्द्रचित्ता ।। १७ ।।
एभिर्हतै र्जगदुपति सुखं तथैते
कुर्वन्तु नाम नरकाय चिराय पापम् ।
संग्राम मृत्यु मधिगम्य दिवं प्रयान्तु
मत्वेति नूनमहितान्विनिहंसि देवि ।। १८ ।।
दृष्ट्वैव किं न भवती प्रकरोति भस्म
सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् ।
लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता
इत्थं मतिर्भवति तेष्व हितेषु साध्वी ।। १९ ।।
खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः
शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् ।
यन्नागता विलयमंशु मदिन्दुखण्ड-
योग्याननं तव विलोकयतां तदेतत् ।। २० ।।
दुर्वृत्त वृत्त शमनं तव देवि शीलं
रूपं तथैत दवि चिन्त्य मतुल्य मन्यैः ।
वीर्यं च हन्तृ हृतदेव पराक्रमाणां
वैरिष्वपि प्रकटितैव दया त्वयेत्थम् ।। २१ ।।
केनोपमा भवतु तेऽस्य पराक्रमस्य
रूपं च शत्रुभयकार्यतिहारि कुत्र ।
चित्ते कृपा समरनिष्ठुरता च दृष्टा
त्वय्येव देवि वरदे भुवनत्रयेऽपि ।। २२ ।।
त्रैलोक्यमेतदखिलं रिपुनाशनेन
त्रातं त्वया समरमूर्धनि तेऽपि हत्वा ।
नीता दिवं रिपुगणा भयमप्यपास्तम्
अमस्माक मुन्मद सुरारिभवं नमस्ते ।। २३ ।।
शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।
घण्टास्वनेन नः पाहि चापज्यानिः स्वनेन च ।। २४ ।।
प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।
भ्रामणेनात्म शूलस्य उत्तरस्यां तथेश्वरि ।। २५ ।।
सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।
यानि चात्यन्त घोराणि तै रक्षा स्मांस्तथा भुवम् ।। २६ ।।
खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके ।
करपल्लव सङ्गीनि तैरस्मान् रक्ष सर्वतः ।। २७ ।।
ऋषिरुवाच ।। २८ ।।
एवं स्तुता सुरैर्दिव्यैः कुसुमै र्नन्दनोद्भवैः ।
अर्चिता जगतां धात्री तथा गन्धानुलेपनैः ।। २९ ।।
भक्त्या समस्तै: त्रिदशै: र्दिव्यैर्धूपै: सुधूपिता ।
प्राह प्रसाद सुमुखी समस्तान् प्रणतान् सुरान् ।। ३० ।।
देव्युवाच ।। ३१ ।।
व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् ।
ददा म्यहं अति प्रीत्या स्त वरै भी: सुपूजिता ।। ३२ ।।
देवा उचुः ।। ३३ ।।
भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते ।
यदयं निहतः शत्रु: अस्माकं महिषासुरः ।। ३४ ।।
यदि चापि वरो देयस्त्वयाऽस्माकं महेश्वरि ।
संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः ।। ३५ ।।
यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्य मलानने ।
तस्य वित्तर्धि विभवै: धन दारादि सम्पदाम्।। ३६ ।।
वृद्धयेऽस्म त्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके ।। ३७ ।।
ऋषिरुवाच ।। ३८ ।।
इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः ।
तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप ।। ३९ ।।
इत्येतत्कथितं भूप सम्भूता सा यथा पुरा ।
देवी देव शरीरेभ्यो जगत्त्रय हितैषिणी ।। ४० ।।
पुनश्च गौरीदेहा सा समुद्भूता यथाभवत् ।
वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः ।। ४१ ।।
रक्षणाय च लोकानां देवानामुपकारिणी ।
तच्छृणुष्व मयाऽऽख्यातं यथावत्कथयामि ते ।। ४२ ।।
। ह्रीं ॐ ।
।। इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः ।। ४ ।।