content

Chandipath Chapter - 02

Chandipath Chapter - 02

द्वितीयोऽध्यायः

विनियोगः

अस्य श्री मध्यमचरित्रस्य विष्णुर्ऋषिः ।

श्रीमहालक्ष्मीर्देवता । उष्णिक् छन्दः । शाकम्भरी शक्तिः । दुर्गा बीजम् । वायुस्तत्त्वम् । यजुर्वेदः स्वरूपम् । श्रीमहालक्ष्मीप्रीत्यर्थे मध्यमचरित्रजपे विनियोगः ।

। ध्यानम् ।

ॐ अक्षस्रक्परशू गदेषुकुलिशं पद्मं धनुष्कुण्डिकां

दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।

शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां

सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ।।


ॐ ऋषिरुवाच ।। १ ।।


देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा ।

महिषेऽसुराणामधिपे देवानां च पुरन्दरे ।। २ ।।


तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् ।

जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुरः ।। ३ ।।


ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् ।

पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ ।। ४ ।।


यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् ।

त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् ।। ५ ।।


सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च ।

अन्येषां चाधिकारान्स स्वयमेवाधितिष्ठति ।। ६ ।।


स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि ।

विचरन्ति यथा मर्त्या महिषेण दुरात्मना ।। ७ ।।


एतद्वः कथितं सर्वममरारिविचेष्टितम् ।

शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् ।। ८ ।।


इत्थं निशम्य देवानां वचांसि मधुसूदनः ।

चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ ।। ९ ।।


ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः ।

निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च ।। १० ।।


अन्येषां चैव देवानां शक्रादीनां शरीरतः ।

निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत ।। ११ ।।


अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम् ।

ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् ।। १२ ।।


अतुलं तत्र तत्तेजः सर्वदेवशरीरजम् ।

एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा ।। १३ ।।


यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् ।

याम्येन चाभवन् केशा बाहवो विष्णुतेजसा ।। १४ ।।


सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत् ।

वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः ।। १५ ।।


ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा ।

वसूनां च कराङ्गुल्यः कौबेरेण च नासिका ।। १६ ।।


तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा ।

नयनत्रितयं जज्ञे तथा पावकतेजसा ।। १७ ।।


भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च ।

अन्येषां चैव देवानां सम्भवस्तेजसां शिवा ।। १८ ।।


ततः समस्तदेवानां तेजोराशिसमुद्भवाम् ।

तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः ।

ततो देवा ददुस्तस्यै स्वानि स्वान्यानुधानि च ।। १९ ।।


शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् ।

चक्रं च दत्तवान् कृष्णः समुत्पाद्य स्वचक्रतः ।। २० ।।


शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः ।

मारुतो दत्तवांश्चापं बाणपूर्णे तथेषुधी ।। २१ ।।


वज्रमिन्द्रः समुत्पाद्य कुलिशादमराधिपः ।

ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् ।। २२ ।।


कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ ।

प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम् ।। २३ ।।


समस्तरोमकूपेषु निजरश्मीन् दिवाकरः ।

कालश्च दत्तवान् खड्गं तस्याश्चर्म च निर्मलम् ।। २४ ।।


क्षीरोदश्चामलं हारमजरे च तथाम्बरे ।

चूडामणिं तथा दिव्यं कुण्डले कटकानि च ।। २५ ।।


अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु ।

नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् ।। २६ ।।


अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च ।

विश्वकर्मा ददौ तस्यै परशुं चातिनिर्मलम् ।। २७ ।।


अस्त्राण्यनेकरूपाणि तथाऽभेद्यं च दंशनम् ।

अम्लानपङ्कजां मालां शिरस्युरसि चापराम् ।। २८ ।।


अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम् ।

हिमवान् वाहनं सिंहं रत्नानि विविधानि च ।। २९ ।।


ददावशून्यं सुरया पानपात्रं धनाधिपः ।

शेषश्च सर्वनागेशो महामणिविभूषितम् ।। ३० ।।


नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम् ।

अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा ।। ३१ ।।


सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः ।

तस्या नादेन घोरेण कृत्स्नमापूरितं नभः ।। ३२ ।।


अमायतातिमहता प्रतिशब्दो महानभूत् ।

चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे ।। ३३ ।।


चचाल वसुधा चेलुः सकलाश्च महीधराः ।

जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् ।। ३४ ।।


तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः ।

दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः ।। ३५ ।।


सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः ।

आः किमेतदिति क्रोधादाभाष्य महिषासुरः ।। ३६ ।।


अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः ।

स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा ।। ३७ ।।


पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम्  ।

क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् ।। ३८ ।।


दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम् ।

ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् ।। ३९ ।।


शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् ।

महिषासुरसेनानीश्चिक्षुराख्यो महासुरः ।। ४० ।।


युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः ।

रथानामयुतैः षड्भिरुदग्राख्यो महासुरः ।। ४१ ।।


अयुध्यतायुतानां च सहस्रेण महाहनुः ।

पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः ।। ४२ ।।


अयुतानां शतैः षड्भिर्बाष्कलो युयुधे रणे ।

गजवाजिसहस्रौघैरनेकैः परिवारितः ।। ४३ ।।


वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत ।

बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः ।। ४४ ।।


युयुधे संयुगे तत्र रथानां परिवारितः ।

अन्ये च तत्रायुतशो रथनागहयैर्वृताः ।। ४५ ।।


युयुधुः संयुगे देव्या सह तत्र महासुराः ।

कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा ।। ४६ ।।


हयानां च वृतो युद्धे तत्राभून्महिषासुरः ।

तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा ।। ४७ ।।


युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः ।

केचिच्च चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे ।। ४८ ।।


देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः ।

सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका ।। ४९ ।।


लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी ।

अनायस्तानना देवी स्तूयमाना सुरर्षिभिः ।। ५० ।।


मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी ।

सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी ।। ५१ ।।


चचारासुरसैन्येषु वनेष्विव हुताशनः ।

निःश्वासान् मुमुचे यांश्च युध्यमाना रणेऽम्बिका ।। ५२ ।।


त एव सद्यः सम्भूता गणाः शतसहस्रशः ।

युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः ।। ५३ ।।


नाशयन्तोऽसुरगणान् देवीशक्त्युपबृंहिताः ।

अवादयन्त पटहान् गणाः शङ्खांस्तथापरे ।। ५४ ।।


मृदङ्गाश्च तथैवान्ये तस्मिन्युद्धमहोत्सवे ।

ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः ।। ५५ ।।


खड्गादिभिश्च शतशो निजघान महासुरान् ।

पातयामास चैवान्यान् घण्टास्वनविमोहितान् ।। ५६ ।।


असुरान् भुवि पाशेन बद्ध्वा चान्यानकर्षयत् ।

केचिद् द्विधाकृतास्तीक्ष्णैः खड्गपातैस्तथापरे ।। ५७ ।।


विपोथिता निपातेन गदया भुवि शेरते ।

वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः ।। ५८ ।।


केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि ।

निरन्तराः शरौघेण कृताः केचिद्रणाजिरे ।। ५९ ।।


श्येनानुकारिणः प्राणान्मुमुचुस्त्रिदशार्दनाः ।

केषांचिद् बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे ।। ६० ।।


शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः ।

विच्छिन्नजङ्घास्त्वपरे पेतुरुर्व्यां महासुराः ।। ६१ ।।


एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः ।

छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः ।। ६२ ।।


कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः ।

ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः ।। ६३ ।।


कबन्धाश्छिन्नशिरसः खड्गशक्त्यृष्टिपाणयः ।

तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुराः ।।६४ ।।


पातितै रथनागाश्वैरसुरैश्च वसुन्धरा ।

अगम्या साभवत्तत्र यत्राभूत् स महारणः ।। ६५ ।।


शोणितौघा महानद्यस्सद्यस्तत्र प्रसुस्रुवुः ।

मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ।। ६६ ।।


क्षणेन तन्महासैन्यमसुराणां तथाम्बिका ।

निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम् ।। ६७ ।।


स च सिंहो महानादमुत्सृजन् धुतकेसरः ।

शरीरेभ्योऽमरारीणामसूनिव विचिन्वति ।। ६८ ।।


देव्या गणैश्च तैस्तत्र कृतं युद्धं महासुरैः ।

यथैषां तुष्टुवुर्देवाः पुष्पवृष्टिमुचो दिवि ।। ६९ ।।


।। स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः ।। २ ।।