content

Bhavnyashtakam

Authored by Adi Shankaracharya

भवान्यष्टकं

न तातो न माता न बन्धुर्न दाता

न पुत्रो न पुत्री न भृत्यो न भर्ता ।

न जाया न विद्या न वृत्तिर्ममैव

गतिस्त्वं गतिस्त्वं त्वमेका भवानि ।। १ ।।


भवाब्धावपारे महादुःखमीरु

प्रपात प्रकामी प्रलोभी प्रमत्तः ।

कुसंसारपाशप्रबद्धः सदाहं

गतिस्त्वं गतिस्त्वं त्वमेका भवानि ।। २ ।।


न जानामि दानं न च ध्यानयोगं

न जानामि तन्त्रं न च स्तोत्रमन्त्रम् ।

न जानामि पूजां न च न्यासयोगं

गतिस्त्वं गतिस्त्वं त्वमेका भवानि ।। ३ ।।


न जानामि पुण्यं न जानामि तीर्थं

न जानामि मुक्तिं लयं वा कदाचित् ।

न जानामि भक्तिं व्रतं वापि मातर्-

गतिस्त्वं गतिस्त्वं त्वमेका भवानि ।। ४ ।।


कुकर्मी कुसङ्गी कुबुद्धिः कुदासः

कुदृष्टिः कुवाक्यप्रबन्धः सदाहं

गतिस्त्वं गतिस्त्वं त्वमेका भवानि ।। ५ ।।


प्रजेशं रमेशं महेशं सुरेशं

दिनेशं निशीथेश्वरं वा कदाचित् ।

न जानामि चान्यत् सदाहं शरण्ये

गतिस्त्वं गतिस्त्वं त्वमेका भवानि ।। ६ ।।


विवादे विषादे प्रमादे प्रवासे

जले चानले पर्वते शत्रुमध्ये ।

अरण्ये शरण्ये सदा मां प्रपाहि

गतिस्त्वं गतिस्त्वं त्वमेका भवानि ।। ७ ।।


अनाथो दरिद्रो जरारोगयुक्तो

महाक्षीण-दीनः सदा जाड्यवत्रः ।

विपत्तौ प्रविष्टः प्रनष्टः सदाहं

गतिस्त्वं गतिस्त्वं त्वमेका भवानि ।। ८ ।।


।। इति श्रीमदादिशंकराचार्यविरचितं भवान्यष्टकं सम्पूर्णम् ।।